BSEB CLASS 10 SANSKRIT (पीयूषम्)
अष्टमः पाठः: कर्मवीर कथा
सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)
1. पाठगत व्याकरणम् (प्रकृतिप्रत्ययविभागः)
- 1. निरतः नि + रम् + क्त
- 2. अध्यापनम् अधि + इङ् + णिच् + ल्युट्
- 3. लब्धम् लभ् + क्त
- 4. ख्यातिम् ख्यै + क्तिन् (द्वितीया विभक्तिः, एकवचनम्)
- 5. कृतवान् कृ + क्तवतु
- 6. उपदिष्टः उप + दिश् + क्त
- 7. अभिभूतः अभि + भू + क्त
- 8. आकृष्टः आङ् + कृष् + क्त
- 9. ज्ञानेन ज्ञा + ल्युट् (तृतीया विभक्तिः, एकवचनम्)
- 10. प्रीताः प्री + क्त (प्रथमा विभक्तिः, बहुवचनम्)
- 11. सञ्जातः सम् + जन् + क्त
- 12. व्यतीत्य वि + अति + इण् + ल्यप्
- 13. कृतेन कृ + क्त (तृतीया विभक्तिः, एकवचनम्)
2. अभ्यासः (मौखिकः)
1. एकपदेन उत्तरं वदत —
(क) कर्मवीरः कः अस्ति ?
उत्तरम् : रामप्रवेशरामः
(ख) बिहारप्रान्तस्य दुर्गमप्राये प्रान्तरे कः ग्रामः अस्ति ?
उत्तरम् : भीखनटोला
(ग) 'भीखनटोला' ग्रामे शिक्षकः कं दृष्टवान् ?
उत्तरम् : दलितबालकम् (रामप्रवेशरामम्)
(घ) कर्मवीरः रामप्रवेशः कुत्र उन्नत स्थानं प्राप्तवान् ?
उत्तरम् : केन्द्रीयलोकसेवापरीक्षायाम्
(ङ) केन कर्मवीरः उन्नत स्थानमवाप ?
उत्तरम् : स्वअध्यवसायेन (निजपरिश्रमेण)
3. अभ्यासः (लिखितः)
1. एकपदेन उत्तरं लिखत —
(क) रामप्रवेशस्य ग्रामस्य नाम किम् अस्ति ?
उत्तरम् : भीखनटोला
(ख) भीखनटोलां द्रष्टुं कः आगतः ?
उत्तरम् : नवीनदृष्टिसम्पन्नः शिक्षकः
(ग) बालकः कस्य शिक्षणशैल्याकृष्टः ?
उत्तरम् : शिक्षकस्य
(घ) स्नातकपरीक्षायां प्रथमस्थानं प्राप्य कस्य ख्यातिमवर्धयत् ?
उत्तरम् : स्वमहाविद्यालयस्य
(ङ) उद्योगिनं पुरुषसिंहं का उपैति ?
उत्तरम् : लक्ष्मीः
2. पूर्णवाक्येन उत्तरं लिखत —
(क) 'भीखनटोला' ग्रामः कुत्र अस्ति ?
उत्तरम् : 'भीखनटोला' ग्रामः बिहारप्रान्तस्य दुर्गमप्राये प्रान्तरे अस्ति।
(ख) प्राथमिकविद्यालये कीदृशः शिक्षकः समागतः ?
उत्तरम् : प्राथमिकविद्यालये नवीनदृष्टिसम्पन्नः सामाजिकसामरस्यपक्षपाती शिक्षकः समागतः।
(ग) शिक्षकः कं शिक्षितुमारभत ?
उत्तरम् : शिक्षकः दलितबालकं रामप्रवेशरामं शिक्षितुमारभत।
(घ) रामप्रवेशः कस्यां परीक्षायाम् उन्नत स्थानमवाप ?
उत्तरम् : रामप्रवेशः केन्द्रीयलोकसेवापरीक्षायाम् उन्नत स्थानमवाप।
(ङ) कयोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत ?
उत्तरम् : पित्रोः अर्थाभावेऽपि रामप्रवेशः महाविद्यालये प्रवेशमलभत।
(च) साक्षात्कारे समितिसदस्याः किमर्थं प्रीताः अभवन् ?
उत्तरम् : साक्षात्कारे समितिसदस्याः रामप्रवेशस्य व्यापकेन ज्ञानेन तत्रापि तादृशे परिवेशे कृतेन श्रमेण अभ्यासेन च भृशं प्रीताः अभवन्।
(छ) रामप्रवेशस्य प्रतिष्ठा कुत्र-कुत्र दृश्यते ?
उत्तरम् : रामप्रवेशस्य प्रतिष्ठा स्वप्रान्ते केन्द्रप्रशासने च दृश्यते।
(ज) लक्ष्मीः कीदृशं जनम् उपैति ?
उत्तरम् : लक्ष्मीः उद्योगिनं पुरुषसिंहं जनम् उपैति।
3. उदाहरणम् अनुसृत्य रक्षति / त्रायते क्रियापदस्य प्रयोगं कृत्वा मञ्जूषातः पदानि चित्वा वाक्यानि रचयत —
1. वैद्यः जनं रोगात् त्रायते / रक्षति।
2. प्रहरी ग्रामं चौरात् रक्षति।
3. सैनिकः देशं शत्रोः (आतङ्कवादिनः) रक्षति।
4. धर्मात्मा आत्मानं पापात् रक्षति।
5. सज्जनः मनः दोषात् त्रायते।
6. करीमः मित्रं लुण्ठकात् त्रायते।
7. पवनस्य वेगात् गृहं वृक्षः त्रायते।
4. निम्नाङ्कितानां समस्तपदानां विग्रहं कृत्वा समासनामाणि लिखत —
- (क) अकृतकालक्षेपः न कृतः कालक्षेपः येन सः (बहुव्रीहि समासः)
- (ख) पुस्तकागारम् पुस्तकानाम् आगारम् (षष्ठी तत्पुरुष समासः)
- (ग) स्नातकपरीक्षायाम् स्नातकस्य परीक्षायाम् (षष्ठी तत्पुरुष समासः)
- (घ) दलितबालकम् दलितः च असौ बालकः (कर्मधारय समासः)
- (ङ) क्लिष्टजीवनाः क्लिष्टं जीवनं येषां ते (बहुव्रीहि समासः)
- (च) नवीनदृष्टिसम्पन्नः नवीनया दृष्ट्या सम्पन्नः (तृतीया तत्पुरुष समासः)
- (छ) सामाजिकसामरस्यसम्पन्नः सामाजिकसामरस्येन सम्पन्नः (तृतीया तत्पुरुष समासः)
- (ज) स्वाध्यायनिरतः स्वाध्याये निरतः (सप्तमी तत्पुरुष समासः)
5. पठितपाठम् अनुसृत्य निम्नलिखितपदानां पर्यायरूपाणि लिखत —
- (क) कठिनजीविताः क्लिष्टजीवनाः
- (ख) अकृतसमयनाशः अकृतकालक्षेपः
- (ग) क्षमता सामर्थ्यम्
- (घ) जनप्रियः लोकप्रियः
- (ङ) आकर्षकम् मनोहरम् / रमणीयम्
- (च) संलग्नः निरतः / तत्परः
- (छ) परिश्रमः श्रमः / अध्यवसायः
- (ज) धनाभावः अर्थाभावः
- (झ) सावधानमनसा एकाग्रचित्तेन / समाहितचित्तेन
- (ञ) सद्यः आकर्षकेण आपातकमनीयेन
0 Comments