Chapter 6. भारतीयसंस्काराः | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

षष्ठः पाठः: भारतीयसंस्काराः

सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. एकपदेन वदत —
(क) संस्काराः कति सन्ति ?
उत्तरम् : षोडश (१६)
(ख) जन्मतः पूर्वं कति संस्काराः भवन्ति ?
उत्तरम् : त्रयः (३)
(ग) शैशवे कति संस्काराः भवन्ति ?
उत्तरम् : षट् (६)
(घ) अक्षरारम्भः कीदृशः संस्कारः ?
उत्तरम् : शिक्षासंस्कारः
(ङ) गृहस्थजीवनस्य एकः संस्कारः कः ?
उत्तरम् : विवाहः

अभ्यासः (लिखितः)

1. एकपदेन उत्तराणि लिखत —
(क) भारतीयसंस्कृतेः परिचयः केभ्यः जायते ?
उत्तरम् : संस्कारेभ्यः
(ख) शैक्षणिक संस्काराः कति सन्ति ?
उत्तरम् : पञ्च (५)
(ग) 'सप्तपदी' क्रिया कस्मिन् संस्कारे विधीयते ?
उत्तरम् : विवाहसंस्कारे
(घ) भारतीयदर्शनस्य महत्वपूर्णम् उपादानं किम् ?
उत्तरम् : संस्कारः
(ङ) सीमन्तोन्नयनं केषु संस्कारेषु गण्यते ?
उत्तरम् : जन्मपूर्वसंस्कारेषु
(च) अन्नप्राशनम् केषु संस्कारेषु गण्यते ?
उत्तरम् : शैशवसंस्कारेषु
(छ) गुरुगृहे शिष्यः कान् पालयन् अध्ययनं करोति ?
उत्तरम् : शिक्षानियमान्
2. पूर्णवाक्येन उत्तराणि लिखत —
(क) संस्काराः मानवस्य कुत्र-कुत्र योगदानं कुर्वन्ति ?
उत्तरम् : संस्काराः मानवस्य परिमार्जने, दोषापनायने, गुणाधाने च योगदानं कुर्वन्ति।
(ख) शैक्षणिकसंस्कारेषु के के संस्काराः प्रकल्पिताः ?
उत्तरम् : शैक्षणिकसंस्कारेषु अक्षरारम्भः, उपनयनम्, वेदारम्भः, केशान्तः (गोदानम्), समावर्तनश्च इति पञ्च संस्काराः प्रकल्पिताः।
(ग) शैशवसंस्कारेषु के के संस्काराः सम्पद्यन्ते ?
उत्तरम् : शैशवसंस्कारेषु जातकर्म, नामकरणम्, निष्क्रमणम्, अन्नप्राशनम्, चूडाकर्म, कर्णवेधश्च इति षट् संस्काराः सम्पद्यन्ते।
(घ) विवाहसंस्कारे कानि मुख्यानि कार्याणि भवन्ति ?
उत्तरम् : विवाहसंस्कारे वाग्दानम्, मण्डपनिर्माणम्, वधूगृहे वरपक्षस्य स्वागतम्, वरवध्वोः परस्परं निरीक्षणम्, कन्यादानम्, अग्निस्थापनम्, पाणिग्रहणम्, लाजाहोमः, सप्तपदी, सिन्दूरदानम् इत्यादीनि मुख्यानि कार्याणि भवन्ति।
(ङ) अन्त्येष्टिसंस्कारः कदा सम्पाद्यते ?
उत्तरम् : अन्त्येष्टिसंस्कारः मरणानन्तरं सम्पाद्यते।
(च) पुंसवनसंस्कारः कदा क्रियते ?
उत्तरम् : पुंसवनसंस्कारः जन्मतः पूर्वम् (गर्भाधानानन्तरम्) क्रियते।
(छ) पुरा शिष्यः वेदारम्भं कुत्र करोति स्म ?
उत्तरम् : पुरा शिष्यः वेदारम्भं गुरुगृहे करोति स्म।
3. उदाहरणं ध्यानेन पठत्वा वाक्यरचनां कुरुत (कृत्वा ..... करोति / कुर्वन्ति) —
उदाहरणम् — (क) बालकः स्नानं कृत्वा अध्ययनं करोति।
(ख) जनाः भोजनं कृत्वा शयनं कुर्वन्ति।
1. अग्निस्थापनम् :
पुरोहितः अग्निस्थापनं कृत्वा होमं करोति
2. अक्षरलेखनम् :
बालकः अक्षरलेखनम् कृत्वा विद्यारम्भं करोति
3. पाणिग्रहणम् :
वरः पाणिग्रहणम् कृत्वा विवाहकार्यं करोति
4. निरीक्षणम् :
गुरुः शिष्यस्य निरीक्षणम् कृत्वा उपदेशं करोति
5. गोदानम् :
छात्रः केशान्तसंस्कारे गोदानम् कृत्वा व्रतपालनम् करोति
6. उपनयनम् :
गुरुः बालकानाम् उपनयनम् कृत्वा स्वाश्रमं आनयति
7. वाग्दानम् :
पिता वाग्दानम् कृत्वा कन्यायाः विवाहं करोति
4. स्तम्भद्वये प्रदत्तपदानां समुचितविलोमपदैः सह मेलनं कुरुत —
स्तम्भः (क) स्तम्भः (ख) [सही मेल]
प्रयोजनम् निष्प्रयोजनम्
प्रसन्नता अप्रसन्नता
संस्काराः कुसंस्काराः
अपनयनम् आनयनम्
स्मर्यते विस्मर्यते
वरिष्ठानाम् कनिष्ठानाम्
गुणाधानम् गुणापनयनम्
5. निम्नाङ्कितप्रकृतिप्रत्ययानां योगं कृत्वा पदानि दर्शयत —
  • 1. परि + मृज् + णिच् + ल्युट् परिमार्जनम्
  • 2. शिशु + अण् शैशवम्
  • 3. प्र + अश् + ल्युट् प्राशनम् (अन्नप्राशनम्)
  • 4. लिख् + ल्युट् लेखनम्
  • 5. क्रम् + शतृ क्रमन्

0 Comments