BSEB CLASS 10 SANSKRIT (पीयूषम्)
चतुर्थः पाठः: संस्कृतसाहित्ये लेखिकाः
सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)
अभ्यासः (मौखिकः)
1. एकपदेन उत्तरं वदत —
(क) विपुलं किम् अस्ति ?
उत्तरम् : संस्कृतसाहित्यम्
(ख) विपुलं संस्कृतसाहित्यं कैः संवर्द्धितम् ?
उत्तरम् : कविभिः शास्त्रकारैश्च (पुरुषैः नारीभिश्च)
(ग) काव्यानाम् रचने संरक्षणे च काः दत्तावधानाः ?
उत्तरम् : स्त्रियः (नार्यः)
(घ) गङ्गादेवी किं महाकाव्यम् अरचयत् ?
उत्तरम् : मधुराविजयाम्
(ङ) आधुनिकसंस्कृतलेखिकासु का प्रसिद्ध ?
उत्तरम् : क्षमारावः (पण्डिता क्षमाराव)
2. पदार्थं वदत —
- (क) "लभ्यन्ते" इत्यस्य कः अर्थः ? प्राप्यन्ते (प्राप्त होते हैं)
- (ख) "इन्द्राणी" इत्यस्य कः अर्थः ? इन्द्रस्य पत्नी (इन्द्र की पत्नी)
- (ग) "वर्तते" इत्यस्य कः अर्थः ? अस्ति (है)
- (घ) "विपुलम्" इत्यस्य कः अर्थः ? विशालम् / महत् (विशाल/बहुत बड़ा)
- (ङ) "ऋषिका" इत्यस्य कः अर्थः ? ऋषिपत्नी / मन्त्रद्रष्ट्री स्त्री (ऋषि महिला)
अभ्यासः (लिखितः)
1. एकपदेन उत्तरं दत्त —
(क) कस्मिन् युगे मन्त्राणां दर्शकाः न केवलं ऋषयः प्रत्युत ऋषिकाः अपि सन्ति ?
उत्तरम् : वैदिकयुगे
(ख) वागाम्भृणी कुत्र ऋषिका निर्दिश्यते ?
उत्तरम् : ऋग्वेदे
(ग) याज्ञवल्क्यस्य पत्नी का आसीत् ?
उत्तरम् : मैत्रेयी
(घ) कस्य सभायां शास्त्रार्थकुशला गार्गी वाचक्नवी तिष्ठति स्म ?
उत्तरम् : जनकस्य
(ङ) लौकिकसंस्कृतसाहित्ये चत्वारिंशत्कवयित्रीणां प्रथमकल्पा का वर्तते ?
उत्तरम् : विजयाङ्का
(च) लौकिकसंस्कृतसाहित्ये कियतीनां कवयित्रीणां वर्णनं लभ्यते ?
उत्तरम् : चत्वारिंशत् (४०)
(छ) विजयभट्टारिका कस्य राज्ञी आसीत् ?
उत्तरम् : चन्द्रादित्यस्य
2. अधोलिखितानि रिक्तस्थानानि पूरयत —
(क) बृहदारण्यकोपनिषदि याज्ञवल्क्यस्य पत्नी ________ वर्णिता।
उत्तरम् : मैत्रेयी
(ख) जनकस्य सभायां शास्त्रार्थकुशला ________ वाचक्नवी तिष्ठति स्म।
उत्तरम् : गार्गी
(ग) लौकिकसंस्कृतसाहित्ये प्रायेण ________ कवयित्रीणां सार्धशतं पद्यानि लभ्यन्ते।
उत्तरम् : चत्वारिंशत्
(घ) तासु ________ प्रथमकल्पा वर्तते।
उत्तरम् : विजयाङ्का
(ङ) सा च ________ वर्णासीदिति।
उत्तरम् : श्याम
(च) चन्द्रादित्यस्य राज्ञी ________ एव विजयाङ्का इति मन्यते।
उत्तरम् : विजयभट्टारिकैव
(छ) षोडशशतके अच्युतरायस्य राज्ञी तिरुमलाम्बा ________ नामकं प्रौढं चम्पूकाव्यम् अरचयत्।
उत्तरम् : वरदाम्बिकापरिणय
3. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन संस्कृतभाषया दत्त —
(क) ऋग्वेदे कति ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते ?
उत्तरम् : ऋग्वेदे चतुर्विंशतिः (२४) ऋषिकाः मन्त्रदर्शनवत्यो निर्दिश्यन्ते।
(ख) याज्ञवल्क्यस्य पत्नी केन रूपेण वर्णिता ?
उत्तरम् : याज्ञवल्क्यस्य पत्नी मैत्रेयी दार्शनिकरुचिमती रूपेण वर्णिता।
(ग) याज्ञवल्क्यः तां किं शिक्षयति ?
उत्तरम् : याज्ञवल्क्यः तां आत्मतत्त्वं शिक्षयति।
(घ) विजयाङ्कायाः वर्णः कः आसीत् ?
उत्तरम् : विजयाङ्कायाः वर्णः श्यामः (नीलोत्पलदलश्यामा) आसीत्।
(ङ) तिरुमलाम्बा कस्य चम्पूकाव्यस्य रचनां कृतवती ?
उत्तरम् : तिरुमलाम्बा वरदाम्बिकापरिणयनामकस्य चम्पूकाव्यस्य रचनां कृतवती।
(च) शंकरचरितम् इति जीवनचरितस्य रचयित्री का ?
उत्तरम् : शंकरचरितम् इति जीवनचरितस्य रचयित्री पण्डिता क्षमारावः अस्ति।
4. उदाहरणानुसारं पर्यायवाचीपदानि लिखत —
उदाहरणम् — "विशालम्" इत्यस्य पर्यायपदम् — विपुलम्
- 1. वृथा व्यर्थम्
- 2. तत्पराः संलग्नाः / सिद्धाः
- 3. वर्तते अस्ति
- 4. ख्याताः प्रसिद्धाः
- 5. ज्ञातमेव विदितमेव
- 6. भार्या पत्नी
- 7. जननी माता
5. अधोलिखितैः पदैः वाक्यानि रचयत —
1. सभायाम् :
जनकस्य सभायाम् गार्गी तिष्ठति स्म।
2. प्रथमकल्पा :
विजयाङ्का कवयित्रीणां प्रथमकल्पा वर्तते।
3. लभ्यते :
संसारे सत्सङ्गत्या सुखं लभ्यते।
4. ऋषयः :
वेदे ऋषयः मन्त्रान् रचयन्ति स्म।
5. शास्त्राणाम् :
गार्गी शास्त्राणाम् ज्ञात्री आसीत्।
6. उदाहरणम् अनुसृत्य स्त्रीप्रत्यययोगेन शब्दं रचयत —
उदाहरणम् — कारक + टाप् = कारिका
- 1. लेखक + टाप् लेखिका
- 2. नायक + टाप् नायिका
- 3. वाचक + टाप् वाचिका
- 4. विधायक + टाप् विधायिका
- 5. योजक + टाप् योजिका
- 6. धारक + टाप् धारिका
- 7. पालक + टाप् पालिका
- 8. गायक + टाप् गायिका
7. उदाहरणम् अनुसृत्य रेखाङ्कितपदानां स्थाने अन्यपदानि योजयत (स्म हटाकर लङ् लकार का प्रयोग) —
उदाहरण 1 — जनकस्य सभायां गार्गी तिष्ठति स्म। → जनकस्य सभायां गार्गी अतिष्ठत्।
उदाहरण 2 — ते पठन्ति स्म। → ते अपठन्।
उदाहरण 2 — ते पठन्ति स्म। → ते अपठन्।
(क) बालकः प्रतिदिनं विद्यालयं गच्छति स्म।
उत्तरम् : बालकः प्रतिदिनं विद्यालयं अगच्छत्।
(ख) छात्राः सायं काले क्षेत्रे क्रीडन्ति स्म।
उत्तरम् : छात्राः सायं काले क्षेत्रे अक्रीडन्।
(ग) अध्यापकाः वर्गेषु पाठयन्ति स्म।
उत्तरम् : अध्यापकाः वर्गेषु अपाठयन्।
(घ) गजाः वने भ्रमन्ति स्म।
उत्तरम् : गजाः वने अभ्रमन्।
(ङ) कोकिलाः वृक्षशाखासु कूजन्ति स्म।
उत्तरम् : कोकिलाः वृक्षशाखासु अकूजन्।
(च) वानराः तरुशिखरेषु कूर्दन्ति स्म।
उत्तरम् : वानराः तरुशिखरेषु अकूर्दन्।
0 Comments