Chapter 2. पाटलिपुत्रवैभवम् | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

द्वितीयः पाठः: पाटलिपुत्रवैभवम्

सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. पाटलिपुत्रनगरस्य विषये द्वे वाक्ये संस्कृतभाषायां वदत —
1. पाटलिपुत्रं बिहारराज्यस्य राजधानी अस्ति।
2. अस्य उत्तरस्यां दिशि गङ्गा नदी प्रवहति।
2. अधोलिखितानां समस्तपदानां विग्रहं वदत —
  • सचिवालयः सचिवानाम् आलयः
  • गोलगृहम् गोलं तत् च गृहम्
  • महीतलातलकम् महीतलस्य तिलकम्
  • महानगरम् महत् च तत् नगरम्
  • सरस्वतीकुलगृहम् सरस्वत्याः कुलगृहम्
3. सन्धिविच्छेदं वदत —
  • नगरेष्वन्यतमम् नगरेषु + अन्यतमम्
  • ग्रामोऽयम् ग्रामः + अयम्
  • कालान्तरेण काल + अन्तरेण
  • पटनेति पटना + इति
  • निर्गतः निः + गतः

अभ्यासः (लिखितः)

1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषाया लिखत —
(क) कुट्टनीमताख्यं काव्यं कस्य कवेः रचना अस्ति ?
उत्तरम् : कुट्टनीमताख्यं काव्यं दामोदरगुप्तस्य कवेः रचना अस्ति।
(ख) पाटलिपुत्रं कस्याः नद्याः तीरे अवस्थितमस्ति ?
उत्तरम् : पाटलिपुत्रं गङ्गायाः नद्याः तीरे अवस्थितमस्ति।
(ग) चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था कीदृशी आसीत् ?
उत्तरम् : चन्द्रगुप्तमौर्यस्य काले अस्य नगरस्य रक्षाव्यवस्था अतिउत्कृष्टा आसीत्।
(घ) राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं कीदृशम् आसीत् ?
उत्तरम् : राज्ञः अशोकस्य समये अस्य नगरस्य वैभवं सुतराम् समृद्धम् आसीत्।
(ङ) काव्यमीमांसानामकं ग्रन्थं कः अलिखत् ?
उत्तरम् : काव्यमीमांसानामकं ग्रन्थं राजशेखरः अलिखत्।
2. अधोलिखितानां शब्दानां सन्धिविच्छेदं कुरुत —
  • पाणिनिपिङ्गलाविह पाणिनिपिङ्गलौ + इह
  • अत्युत्कृष्टासीदिति अति + उत्कृष्टा + आसीत् + इति
  • उत्सवाश्च उत्सवाः + च
  • अस्योत्तरस्याम् अस्य + उत्तरस्याम्
  • गाँधीसेतुर्नाम गाँधीसेतुः + नाम
  • नगरस्यास्य नगरस्य + अस्य
  • पुष्पाश्रिता पुष्प + आश्रिता
3. सन्धिं कुरुत —
  • बहुलम् + उत्पादनम् बहुलमुत्पादनम्
  • गङ्गायाः + तीरे गङ्गायास्तीरे
  • नगरे + अस्मिन् नगरेऽस्मिन्
  • च + अस्ति चास्ति
  • शब्दः + अपि शब्दोऽपि
  • सर्वदा + आक्रान्तम् सर्वदाक्रान्तम्
  • इति + एते इत्येते
4. अधोलिखितानां पदानां स्ववाक्येषु संस्कृते प्रयोगं कुरुत —
1. यद्यपि :
यद्यपि सः निर्धनः अस्ति, तथापि दयालुः अस्ति।
2. सम्प्रति :
सम्प्रति पाटलिपुत्रं बिहारस्य राजधानी अस्ति।
3. अतीव :
पाटलिपुत्रस्य इतिहासः अतीव प्राचीनः अस्ति।
4. महान् :
अशोकः एकः महान् राजा आसीत्।
5. नगरम् :
पाटलिपुत्रं विशालं नगरम् अस्ति।
6. अत्र :
अत्र अनेकानि दर्शनीयानि स्थानानि सन्ति।
5. रिक्तस्थानानि पूरयत —
(क) गङ्गायाः उपरि गाँधीसेतुर्नाम ________ महादेशस्य दीर्घतमः सेतुः अस्ति। (अफ्रीका / एशिया)
उत्तरम् : एशिया
(ख) पाटलिपुत्रनगरे प्रसिद्धं ________ अस्ति। (गोलगृहम् / ताजमहलम्)
उत्तरम् : गोलगृहम्
(ग) पाटलिपुत्रस्य नामान्तरं ________ प्राप्यते। (कुसुमपुरम् / माधवपुरम्)
उत्तरम् : कुसुमपुरम्
(घ) कौमुदीमहोत्सवः ________ अतीव प्रचलितः। (आङ्गलशासनकाले / गुप्तशासनकाले)
उत्तरम् : गुप्तशासनकाले
(ङ) पाटलिपुत्रस्य ________ दिशि गङ्गा नदी प्रवहति। (पूर्वस्याम् / उत्तरस्याम्)
उत्तरम् : उत्तरस्याम्
(च) गोविन्दसिंहः सिखसम्प्रदायस्य ________ गुरुः आसीत्। (प्रथमः / दशमः)
उत्तरम् : दशमः
6. रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत —
(क) तत्र तीर्थयात्रिणः दर्शनार्थमायान्ति।
प्रश्नः : तत्र के दर्शनार्थमायान्ति ?
(ख) मध्यकाले पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत्।
प्रश्नः : कदा पाटलिपुत्रं वर्षसहस्रपरिमितं जीर्णतामन्वभूत् ?
(ग) मुगलकाले पाटलिपुत्रस्य समुद्धारो जातः।
प्रश्नः : मुगलकाले कस्य समुद्धारो जातः ?
(घ) तत्र सर्वे जनाः आनन्दमग्नाः अभूवन्।
प्रश्नः : तत्र सर्वे जनाः कीदृशाः अभूवन् ?
(ङ) तत्र भगवान् बुद्धः बहुकृत्वः समागतः।
प्रश्नः : तत्र कः बहुकृत्वः समागतः ?
(च) नगरस्य शोभा अशोकस्य समये सुतरां समृद्धम्।
प्रश्नः : नगरस्य शोभा कस्य समये सुतरां समृद्धम् ?
7. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत —
(क) काले-काले उत्सवाः भवन्ति स्म।
विभक्तिः : सप्तमी विभक्तिः (एकवचनम्)
(ख) तस्य सङ्केतः अनेकेषु ग्रन्थेषु लभ्यते।
विभक्तिः : षष्ठी विभक्तिः (एकवचनम्)
(ग) नगरम् इदं पटनेति नाम्ना प्रसिद्धिमगात्।
विभक्तिः : प्रथमा / द्वितीया विभक्तिः (एकवचनम्)
(घ) कौमुदीमहोत्सवः महान् समारोहः आसीत्।
विभक्तिः : प्रथमा विभक्तिः (एकवचनम्)
(ङ) दुर्गापूजावसरे तादृशः एव समारोहः दृश्यते।
विभक्तिः : सप्तमी विभक्तिः (एकवचनम्)
8. स्तम्भद्वये लिखितानां शब्दानां मेलनं कुरुत —
शब्दः (क) अर्थः (ख) [सही मेल]
मही पृथ्वी
सुतराम् अत्यधिकम्
पुरन्दरः इन्द्रः
अन्यतमम् एकतमम्
उत्कृष्टा प्रकृष्टा
आगतः आगच्छत् (आगतवान्)

0 Comments