Chapter 5. भारतमहिमा | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

पञ्चमः पाठः: भारतमहिमा

सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. एकपदेन उत्तरं वदत —
(क) के गीतकानि गायन्ति ?
उत्तरम् : देवाः
(ख) एषां कः प्रसन्नः ?
उत्तरम् : हरिः (ईश्वरः)
(ग) इयं निर्मला मातृभूमिः कीदृशी अस्ति ?
उत्तरम् : वत्सला
(घ) अस्मदीया भारतीया धरा कीदृशी अस्ति ?
उत्तरम् : विशाला
(ङ) अस्माभिः सदा किं पूजनीयम् ?
उत्तरम् : भारतम्
2. स्वमातृभूमिविषये द्वे वाक्ये वदत —
1. अस्मद् मातृभूमिः भारतवर्षं विशाला निर्मला वत्सला च अस्ति।
2. अत्र जन्म लब्धुम् देवाः अपि स्पृहां कुर्वन्ति।

अभ्यासः (लिखितः)

1. एकपदेन उत्तरं लिखत —
(क) देवाः कानि गायन्ति ?
उत्तरम् : गीतकानि
(ख) जनैः कीदृशं जन्म लब्धम् ?
उत्तरम् : मुकुन्दसेवौपयिकम् (मुकुन्दसेवायाः योग्यम्)
(ग) विशाला धरा का ?
उत्तरम् : भारतीया (भारतधरा)
(घ) जगद् गौरवम् किं वर्तते ?
उत्तरम् : भारतम्
(ङ) समेषामं जनानां का भवेत् ?
उत्तरम् : देशभक्तिः (राष्ट्रभक्तिः)
2. पूर्णवाक्येन उत्तरं लिखत —
(क) अस्माकं भारतीया धरा कीदृशी अस्ति ?
उत्तरम् : अस्माकं भारतीया धरा विशाला, अतिरम्यरूपा, शोभना, वत्सला च अस्ति।
(ख) भारतीया धरा कैः काभिः च सेविता ?
उत्तरम् : भारतीया धरा सागरैः, वनैः, पर्वतैः, निर्झरैः, प्रवहन्तीभिः वाहिनीभिः (नदीभिः) च सेविता।
(ग) धर्म-जातिप्रभेदैः विभिन्नाः जनाः किं वहन्तः वसन्ति ?
उत्तरम् : धर्म-जातिप्रभेदैः विभिन्नाः जनाः एकत्वभावं वहन्तः वसन्ति।
(घ) के वारंवारं भारते जन्म गृह्णन्ति ?
उत्तरम् : देवाः वारंवारं भारते जन्म गृह्णन्ति।
(ङ) सर्वेषां जनानां देशभक्तिः कीदृशी भवेत् ?
उत्तरम् : सर्वेषां जनानां देशभक्तिः आवर्जनीया (आकर्षिका) आदर्शरूपा च भवेत्।
(च) भारतभूमिः कीदृशी अस्ति ?
उत्तरम् : भारतभूमिः निर्मला, वत्सला, विशाला, जगद्गौरवं पूजनीया च अस्ति।
(छ) भारताजिरे जन्म लब्धुं स्पृहा केषाम् अस्ति ?
उत्तरम् : भारताजिरे जन्म लब्धुं स्पृहा देवानामपि (सुराणाम्) अस्ति।
3. मञ्जूषायां लिखितपदानां समुचितप्रयोगं कृत्वा वाक्यानि रचयत —
उदाहरणम् — रामेण पत्रं लेखनीयम्।
1. सीतया :
सीतया गीता पठनीया।
2. श्यामेन :
श्यामेन ग्रन्थः पठनीयः।
3. लतया :
लतया चित्रम् दर्शनीयम्।
4. हिमांशुना :
हिमांशुना कार्यम् करणीयम्।
5. शिशुना :
शिशुना रामायणम् पठनीयम्।
4. उदाहरणम् अनुसृत्य निम्नाङ्कितपदानां कृते विलोमपदानि लिखत —
उदाहरणम् — "धन्याः" पदस्य विलोमपदम् — अधन्याः
  • 1. सुरः असुरः
  • 2. पूजनीयम् अपूजनीयम्
  • 3. भारतीया अभारतीया
  • 4. शोभनम् अशोभनम्
  • 5. प्रसन्नः अप्रसन्नः
  • 6. प्रसिद्धम् अप्रसिद्धम्
  • 7. शुभा अशुभा
  • 8. लब्धम् अलब्धम्
  • 9. गौरवम् लाघवम् / अगौरवम्
  • 10. रम्यरूपा अरम्यरूपा
5. रेखाङ्कितानां स्थाने विलोमपदानां प्रयोगं कृत्वा वाक्यानि रचयत —
उदाहरणम् — ये पुण्यम् कुर्वन्ति ते धन्याः भवन्ति। → उत्तरम् : ये पापं कुर्वन्ति ते अधन्याः भवन्ति।
(क) ये सज्जनाः सन्ति ते शोभनं कार्यं कुर्वन्ति।
उत्तरम् : ये दुर्जनाः सन्ति ते अशोभनं कार्यं कुर्वन्ति।
(ख) पुरा गङ्गा निर्मला प्रवहति स्म।
उत्तरम् : पुरा गङ्गा मलिना प्रवहति स्म।
(ग) वाटिका सपुष्पवृक्षैः रम्या प्रतिभाति।
उत्तरम् : वाटिका निष्पुष्पवृक्षैः अरम्या प्रतिभाति।
(घ) धर्मात्मा अस्माभिः पूजनीयः
उत्तरम् : दुरात्मा अस्माभिः अपूजनीयः
(ङ) सद्व्यवहारेण मनसि शान्तिः प्रवर्धते।
उत्तरम् : असद्व्यवहारेण मनसि अशान्तिः प्रवर्धते।

0 Comments