Chapter 3. अलसकथा | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

तृतीयः पाठः: अलसकथा

सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. अधोलिखितानां प्रश्नानाम् उत्तराणि वदत —
(क) इयं कथा कस्मात् ग्रन्थात् उद्धृताऽस्ति ?
उत्तरम् : 'पुरुषपरीक्षा' नामात् ग्रन्थात्
(ख) अस्यां कथायां कस्य महत्वं वर्णितम् अस्ति ?
उत्तरम् : मानवगुणानाम् (तथा च दोषनिराकरणस्य)
(ग) अस्याः कथायाः रचनाकारः कः ?
उत्तरम् : विद्यापतिः
(घ) इयं कथा किं शिक्षयति ?
उत्तरम् : आलस्यदोषाणां त्यागाय (आलस्यनिराकरणम्)
(ङ) विद्यापतिः कः आसीत् ?
उत्तरम् : लोकप्रियः मैथिलकविः
(च) अस्यां कथायां कस्य दोषस्य वर्णनम् अस्ति ?
उत्तरम् : आलस्यस्य
(छ) मिथिलायाः मन्त्री कः आसीत् ?
उत्तरम् : वीरेश्वरः
(ज) कं दृष्ट्वा सर्वे धूर्ताः पलायिताः ?
उत्तरम् : प्रवृद्धमग्निम् (अलसशालायां लग्नमग्निम्)
(झ) अलसशालायां बहुद्रव्यव्ययं दृष्ट्वा तन्नियोगिपुरुषैः किं परामृष्टम् ?
उत्तरम् : अलसानां परीक्षा करणम्
2. अधोलिखितानां प्रश्नानाम् उत्तरम् एकशब्देन दत्त —
(क) अग्निं दृष्ट्वा के पलायिताः ?
उत्तरम् : धूर्ताः
(ख) कति पुरुषाः सुप्ता आसन् ?
उत्तरम् : चत्वारः
(ग) एकः पुरुषः किम् अवदत् ?
उत्तरम् : अहो, कथमयं कोलाहलः ?
(घ) द्वितीयः पुरुषः किम् अवदत् ?
उत्तरम् : तर्क्यते यदस्मिन् गृहे अग्निलग्नोऽस्ति।
(ङ) तृतीयः पुरुषः किम् अवदत् ?
उत्तरम् : कोऽपि तथा धार्मिको नास्ति य इदानीं जलाद्रैः वासद्भिः कटैर्वा प्रावृणोति।
(च) चतुर्थः पुरुषः किम् अवदत् ?
उत्तरम् : अये वाचालाः ! कति वचनानि वक्तुं शक्नुथ, तूष्णीं कथं न तिष्ठथ ?
(छ) वीरेश्वरः कः आसीत् ?
उत्तरम् : मिथिलायाः मन्त्री
(ज) तस्य स्वभावः कीदृशः आसीत् ?
उत्तरम् : दानशीलः कारुणिकश्च
(झ) अलसानां सुखं दृष्ट्वा के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति स्म ?
उत्तरम् : धूर्ताः

अभ्यासः (लिखितः)

1. रिक्तस्थानानि पूरयत —
(क) स्थितिः ________ धावन्ति जन्तवः।
उत्तरम् : सौकर्यमूला हि सर्वेषामपि संहननम्।
(ख) निर्गतीनां ________ वह्निना।
उत्तरम् : च सर्वेषामलसः प्रथमो मतः।
(ग) कपटेनानलसा अपि गृह्णन्ति इत्यस्माकं ________।
उत्तरम् : प्रमादः
(घ) विद्यापतिः लोकप्रियः ________ आसीत्।
उत्तरम् : मैथिलकविः
(ङ) नीतिकाराः आलस्यं ________ मन्यन्ते।
उत्तरम् : रिपुं
(च) आसीत् मिथिलायां ________ नाम मन्त्री।
उत्तरम् : वीरेश्वरो
(छ) पश्चादलसानां सुखं दृष्ट्वा धूर्ता अपि कृत्रिमालस्यं दर्शयित्वा ________ गृह्णन्ति।
उत्तरम् : भोजनं
2. एकपदेन उत्तरत —
(क) अलसकथायाः कथाकारः कः ?
उत्तरम् : विद्यापतिः
(ख) वीरेश्वरो नाम मन्त्री कुत्र आसीत् ?
उत्तरम् : मिथिलायाम्
(ग) केषाम् इष्टलाभं कृत्वा तुन्दपरिमृजा वर्तुलीबभूवुः ?
उत्तरम् : अलसानाम्
(घ) के कृत्रिमालस्यं दर्शयित्वा भोजनं गृह्णन्ति ?
उत्तरम् : धूर्ताः
(ङ) तत्रैव कति पुरुषाः सुप्ताः ?
उत्तरम् : चत्वारः
3. पूर्णवाक्येन उत्तराणि दत्त —
(क) मिथिलायां कः मन्त्री आसीत् ?
उत्तरम् : मिथिलायां वीरेश्वरो नाम मन्त्री आसीत्।
(ख) वीरेश्वरो नाम मन्त्री केभ्यः स्वरुचिभोजनं दापयति स्म ?
उत्तरम् : वीरेश्वरो नाम मन्त्री दुर्गतेभ्यः अनाथेभ्यः अलसेभ्यश्च स्वरुचिभोजनं दापयति स्म।
(ग) भीषणबुभुक्षया अपि कः किमपि कर्तुं न क्षमते ?
उत्तरम् : भीषणबुभुक्षया अपि अलसः किमपि कर्तुं न क्षमते।
(घ) धूर्ताः किं दृष्ट्वा पलायनं कृतवन्तः ?
उत्तरम् : धूर्ताः गृहे लग्नं प्रवृद्धमग्निं दृष्ट्वा पलायनं कृतवन्तः।
(ङ) चत्वारः अलसाः कैः बहिष्कृताः ?
उत्तरम् : चत्वारः अलसाः नियोगीपुरुषैः केशेष्वकृष्य बहिष्कृताः।
(च) अलसानां कः शरणदः ?
उत्तरम् : अलसानां कारुणिकः (दयावान् जनः) शरणदः।
(छ) जन्तवः केषाम् सुखं दृष्ट्वा धावन्ति ?
उत्तरम् : जन्तवः सजातीनां सुखं दृष्ट्वा धावन्ति।
4. उदाहरणम् अनुसृत्य पदनिर्माणं क्रियताम् (ष्यञ् प्रत्ययः) —
उदाहरणम् — अलस + ष्यञ् = आलस्यम्
  • 1. करुण + ष्यञ् कारुण्यम्
  • 2. बहुल + ष्यञ् बाहुल्यम्
  • 3. प्रधान + ष्यञ् प्राधान्यम्
  • 4. सरल + ष्यञ् सारल्यम्
  • 5. तरुण + ष्यञ् तारुण्यम्
  • 6. कठिन + ष्यञ् काठिन्यम्
  • 7. वत्सल + ष्यञ् वात्सल्यम्
5. उदाहरणम् अनुसृत्य क्रियापदानि लिखत (प्रेरणार्थक/णिजन्त क्रियापदम्) —
उदाहरणम् — ददाति इत्यस्य प्रेरणार्थके "दापयति" क्रियापदं भवति।
  • 1. पश्यति दर्शयति
  • 2. करोति कारयति
  • 3. खादति खादयति
  • 4. पठति पाठयति
  • 5. गच्छति गमयति
6. उदाहरणम् अनुसृत्य प्रश्ननिर्माणं क्रियताम् —
उदाहरणम् — वीरेश्वरः कारुणिकः मन्त्री आसीत्। → वीरेश्वरः कीदृशः मन्त्री आसीत् ?
(क) धूर्ताः कृत्रिमालस्यं दर्शयित्वा भोजनम् प्राप्नुवन्ति।
प्रश्नः : धूर्ताः कृत्रिमालस्यं दर्शयित्वा किम् प्राप्नुवन्ति ?
(ख) निर्गतीनां प्रथमः अलसः अस्ति।
प्रश्नः : निर्गतीनां प्रथमः कः अस्ति ?
(ग) अलसः जाठरेणापि वह्निना किमपि कर्तुं न क्षमते।
प्रश्नः : कः जाठरेणापि वह्निना किमपि कर्तुं न क्षमते ?
(घ) नियोगिपुरुषाः अलसशालायाम् वह्निं दापयित्वा निरूपयामासुः।
प्रश्नः : नियोगिपुरुषाः कुत्र / कस्याम् वह्निं दापयित्वा निरूपयामासुः ?
(ङ) स्त्रीणाम् गतिः पतिरेव।
प्रश्नः : कासाम् गतिः पतिरेव ?
(च) बालानां गतिः जननी।
प्रश्नः : केषाम् गतिः जननी ?
(छ) कारुणिकः अलसानां गतिः।
प्रश्नः : कारुणिकः केषाम् गतिः ?

0 Comments