Chapter 11. व्याघ्रपथिककथा | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

एकादशः पाठः: व्याघ्रपथिककथा

सम्पूर्ण प्रश्नोत्तर एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. अधोलिखितानां प्रश्नानाम् उत्तरं वदत —
(क) कः स्नातः कुशहस्तः सरस्तीरे ब्रूते ?
उत्तरम् : वृद्धव्याघ्रः स्नातः कुशहस्तः सरस्तीरे ब्रूते।
(ख) 'भाग्येनैतत्संभवति'- इति केन आलोचितम् ?
उत्तरम् : 'भाग्येनैतत्संभवति'- इति पान्थेन (पथिकेन) आलोचितम्।
(ग) वृद्धव्याघ्रः किं दातुम् इच्छति स्म ?
उत्तरम् : वृद्धव्याघ्रः सुवर्णकङ्कणं दातुम् इच्छति स्म।
(घ) पथिकः कुत्र निमग्नः अभवत् ?
उत्तरम् : पथिकः महापङ्के निमग्नः अभवत्।
(ङ) पथिकः केन व्यापादितः खादितश्च ?
उत्तरम् : पथिकः व्याघ्रेण व्यापादितः खादितश्च।
2. उदाहरणमनुसृत्य उत्तरं वदत —
उदाहरणम् — स्ना + क्त्वा = स्नात्वा
  • (क) पठ् + क्त्वा पठित्वा
  • (ख) खाद् + क्त्वा खादित्वा
  • (ग) गम् + क्त्वा गत्वा
  • (घ) दृश् + क्त्वा दृष्ट्वा
  • (ङ) हस् + क्त्वा हसित्वा
3. उदाहरणमनुसृत्य पञ्च पदानि वदत —
उदाहरणम् — दा + तव्यत् = दातव्यम्
  • (क) श्रु + तव्यत् श्रोतव्यम्
  • (ख) गम् + तव्यत् गन्तव्यम्
  • (ग) स्मृ + तव्यत् स्मर्तव्यम्
  • (घ) कृ + तव्यत् कर्तव्यम्
  • (ङ) हस् + तव्यत् हसितव्यम्
4. उदाहरणमनुसृत्य अधोलिखितेषु पदेषु प्रकृतिं प्रत्ययं च वदत —
उदाहरणम् — मृ + क्त = मृतः
  • (क) गतः गम् + क्त
  • (ख) उक्तः वच् + क्त
  • (ग) कृतः कृ + क्त
  • (घ) पठितः पठ् + क्त
  • (ङ) चलितः चल् + क्त

अभ्यासः (लिखितः)

1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत —
(क) वृद्धव्याघ्रः कुत्र ब्रूते ?
उत्तरम् : सरस्तीरे
(ख) कः लोभाकृष्टः अभवत् ?
उत्तरम् : पान्थः (पथिकः)
(ग) कः सुवर्णकङ्कणं दातुम् इच्छति स्म ?
उत्तरम् : व्याघ्रः (वृद्धव्याघ्रः)
(घ) कः स्नानशीलः दाता गलितनखदन्तः च आसीत् ?
उत्तरम् : व्याघ्रः
(ङ) कः वंशहीन आसीत् ?
उत्तरम् : व्याघ्रः
(च) कः पङ्के अपतत् ?
उत्तरम् : पान्थः (पथिकः)
2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत —
(क) 'कुत्र तव कङ्कणम्' इति कः अवदत् ?
उत्तरम् : 'कुत्र तव कङ्कणम्' इति पान्थः (पथिकः) अवदत्।
(ख) व्याघ्रः कीदृशः आसीत् ?
उत्तरम् : व्याघ्रः वृद्धः, स्नानशीलः, दाता, गलितनखदन्तः, वंशहीनश्च आसीत्।
(ग) व्याघ्रेण कानि अधीतानि ?
उत्तरम् : व्याघ्रेण धर्मशास्त्राणि अधीतानि।
(घ) कस्य पुत्रदाराश्च मृताः ?
उत्तरम् : व्याघ्रस्य पुत्रदाराश्च मृताः।
(ङ) कः महापङ्के निमग्नः पलायितुमक्षमः ?
उत्तरम् : पान्थः (पथिकः) महापङ्के निमग्नः पलायितुमक्षमः अभवत्।
3. सन्धिविच्छेदं कुरुत —
  • सरस्तीरे सरः + तीरे
  • भाग्येनैतत्संभवति भाग्येन + एतत् + सम्भवति
  • पान्थोऽवदत् पान्थः + अवदत्
  • वधान्मे वधात् + मे
  • वंशहीनश्चाहम् वंशहीनः + च + अहम्
  • धर्मशास्त्राण्यधीतानि धर्मशास्त्राणि + अधीतानि
  • केनचिद्धार्मिकेणाहमादिष्टः केनचित् + धार्मिकेण + अहम् + आदिष्टः
  • अतस्त्वमहमुत्थापयामि अतः + त्वाम् + अहम् + उत्थापयामि
4. अधोलिखितानां पदानां प्रकृति-प्रत्ययविभागं लिखत —
  • स्नात्वा स्ना + क्त्वा
  • स्नातुम् स्ना + तुमुन्
  • प्रसार्य प्र + सृ + ल्यप्
  • उपगम्य उप + गम् + ल्यप्
  • उक्त्वा वच् + क्त्वा
  • धृतः धृ + क्त
5. अधोलिखितानां क्रियापदानां स्ववाक्येषु प्रयोगं कुरुत —
आलोचितम् :
पान्थेन मनसि आलोचितम्।
गृह्यताम् :
इदं सुवर्णकङ्कणं गृह्यताम्।
दर्शयति :
व्याघ्रः हस्तं प्रसार्य दर्शयति।
पतति :
पर्णं वृक्षात् पतति।
अचिन्तयत् :
पथिकः लोभेन अचिन्तयत्।
अवदत् :
व्याघ्रः नम्रतया अवदत्।
6. रिक्तस्थानानि पूरयत —
(क) भो भोः पान्थाः ! इदं ________ गृह्यताम्।
उत्तरम् : सुवर्णकङ्कणं
(ख) व्याघ्रः ________ प्रसार्य दर्शयति।
उत्तरम् : हस्तम्
(ग) तदुपदेशादिदानीमहं कथं न ________ ?
उत्तरम् : विश्वासभूमिः
(घ) वृद्धव्याघ्रेण संप्राप्तः सः ________ मृतः।
उत्तरम् : पान्थः
(ङ) अहह, ________ पतितोऽसि।
उत्तरम् : महापङ्के
7. अधोलिखितेषु वाक्येषु रेखाङ्कितपदानि आधारीकृत्य प्रश्ननिर्माणं कुरुत —
(क) व्याघ्रः हस्तं प्रसार्य दर्शयति।
प्रश्नः : व्याघ्रः किम् प्रसार्य दर्शयति ?
(ख) पङ्के पतितं दृष्ट्वा व्याघ्रोऽवदत्।
प्रश्नः : कुत्र पतितं दृष्ट्वा व्याघ्रोऽवदत् ?
(ग) व्याघ्रेण धृतः स पान्थोऽचिन्तयत्।
प्रश्नः : केन धृतः स पान्थोऽचिन्तयत् ?
(घ) ईश्वरे धनं मा प्रयच्छ।
प्रश्नः : ईश्वरे किम् मा प्रयच्छ ?
(ङ) ज्ञानं क्रियां बिना भारः।
प्रश्नः : ज्ञानं काम् बिना भारः ?
8. रेखाङ्कितपदेषु प्रयुक्तां विभक्तिं लिखत —
(क) तदत्र सरसि स्नात्वा सुवर्णकङ्कणं गृहाण।
विभक्तिः : सप्तमी विभक्तिः (एकवचनम्)
(ख) असौ व्याघ्रेण व्यापादितः खादितश्च।
विभक्तिः : तृतीया विभक्तिः (एकवचनम्)
(ग) कथं मारत्मके त्वयि विश्वासः
विभक्तिः : प्रथमा विभक्तिः (एकवचनम्)
(घ) तत् उपदेशात् इदानीमहं कथं न विश्वासभूमिः।
विभक्तिः : पञ्चमी विभक्तिः (एकवचनम्)
(ङ) अवशेन्द्रियचित्तानां क्रिया हस्तिस्नानमिव भवति।
विभक्तिः : षष्ठी विभक्तिः (बहुवचनम्)

0 Comments