Chapter 10. मन्दाकिनीवर्णनम् | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

दशमः पाठः: मन्दाकिनीवर्णनम्

सम्पूर्ण प्रश्नोत्तर एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. एकपदेन उत्तरं वदत —
(क) अस्मिन् पाठे का नदी वर्णिता अस्ति ?
उत्तरम् : मन्दाकिनी
(ख) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ?
उत्तरम् : राजराजस्य (कुबेरस्य)
(ग) मन्दाकिनीं नदीं के अवगाहन्ते ?
उत्तरम् : ऋषयः
(घ) रामः मन्दाकिनीम् नदीं कां दर्शयति ?
उत्तरम् : सीताम्
(ङ) मन्दाकिनी-वर्णनं कुतः सङ्गृहीतम् अस्ति ?
उत्तरम् : रामायणात् (अयोध्याकाण्डात्)
(च) मुनयः कम् उपतिष्ठन्ते ?
उत्तरम् : आदित्यम् (सूर्यम्)
(छ) कीदृशानि तीर्थानि रतिं सञ्जनयन्ति ?
उत्तरम् : रमणीयानि
2. श्लोकांशं योजयित्वा पूर्णं श्लोकं वदत —
(क) जटाजिनधरा काले वल्कलारण्यावाससः।
ऋषयस्त्ववगाहन्ते मन्दाकिनीं नदीं प्रिये॥
(ख) दर्शनं चित्रकूटस्य रम्यस्य शोभने।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात्॥

अभ्यासः (लिखितः)

1. एकपदेन उत्तरं लिखत —
(क) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ?
उत्तरम् : चित्रकूटस्य
(ख) नृत्यति इव कः प्रतिभाति ?
उत्तरम् : पर्वतः
(ग) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?
उत्तरम् : मृगयूथैः (मृगैः)
(घ) ऊर्ध्वबाहवः के सन्ति ?
उत्तरम् : मुनयः
(ङ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?
उत्तरम् : सीतायाः
2. पूर्णवाक्येन उत्तरं लिखत —
(क) हंससारससेविता विचित्रपुलिना च का ?
उत्तरम् : हंससारससेविता विचित्रपुलिना च मन्दाकिनी नदी अस्ति।
(ख) संशितव्रताः मुनयः किं कुर्वन्ति ?
उत्तरम् : संशितव्रताः मुनयः नियमैः ऊर्ध्वबाहवः भूत्वा आदित्यम् उपतिष्ठन्ते।
(ग) श्रीरामः मन्दाकिन्यां प्लूयमानान् कान् दर्शयति ?
उत्तरम् : श्रीरामः मन्दाकिन्यां प्लूयमानान् पुष्पसञ्चयान् दर्शयति।
(घ) सिद्धजनाकीर्णां मन्दाकिनीम् का पश्यति ?
उत्तरम् : सिद्धजनाकीर्णां मन्दाकिनीम् सीता पश्यति।
(ङ) "मन्दाकिनी-वर्णनस्य" रचयिता कः ?
उत्तरम् : "मन्दाकिनी-वर्णनस्य" रचयिता महर्षिः वाल्मीकिः अस्ति।
(च) "मन्दाकिनी-वर्णनम्" रामायणस्य कस्मिन् काण्डे अस्ति ?
उत्तरम् : "मन्दाकिनी-वर्णनम्" रामायणस्य अयोध्याकाण्डे अस्ति।
(छ) शुभा गिरः के निष्कूजन्ति ?
उत्तरम् : शुभा गिरः विहङ्गाः (पक्षिणः) निष्कूजन्ति।
3. रिक्तस्थानानि पूरयत —
(क) विचित्रपुलिनां रम्यां हंससारससेविताम्।
कुसुमैरुपसम्पन्नाम् पश्य मन्दाकिनीं नदीम्॥
(ख) क्वचिन्मणिनिकाशोदां क्वचित् पुलिनशालिनीम्।
क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्॥
4. उदाहरणमनुसृत्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत —
उदाहरणम् — मन्दाकिनीं नदीं हंससारससेविता कुसुमैरुपसम्पन्ना ............... (रम्य, भव्य)
उत्तरम् — मन्दाकिनीं नदीं हंससारससेविता कुसुमैरुपसम्पन्ना रम्या अस्ति।
(क) सीता रामचन्द्रस्य ________। (माता, प्रिया, पुत्री)
उत्तरम् : सीता रामचन्द्रस्य प्रिया
(ख) जटाजिनधराः ऋषयः ________ अवगाहन्ते। (पद्माम्, मन्दाकिनीम्, यमुनाम्)
उत्तरम् : जटाजिनधराः ऋषयः मन्दाकिनीम् अवगाहन्ते।
(ग) संशितव्रता मुनयः ________ उत्तिष्ठन्ते (उपतिष्ठन्ते)। (रामं, आदित्यं, कृष्णं)
उत्तरम् : संशितव्रता मुनयः आदित्यं उपतिष्ठन्ते।
(घ) नदीम् अभितः ________ प्रवृत्त इव। (धरा, वृक्षः, पर्वतः)
उत्तरम् : नदीम् अभितः पर्वतः प्रवृत्त इव।
(ङ) पुरवासात् ________ दर्शनम् अधिकं महत्वपूर्णम्। (ग्रामस्य, वनस्य, चित्रकूटस्य)
उत्तरम् : पुरवासात् चित्रकूटस्य दर्शनम् अधिकं महत्वपूर्णम्।
(च) पक्षिणः पर्यायवाची ________ अस्ति। (रवः, द्विजः, नगः)
उत्तरम् : पक्षिणः पर्यायवाची द्विजः अस्ति।
(छ) अस्मिन् पाठे रथाङ्गाह्वयना ________ खगस्य पर्यायवाची अस्ति। (कपोतस्य, चक्रवाकस्य, काकस्य)
उत्तरम् : अस्मिन् पाठे रथाङ्गाह्वयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति।

0 Comments