BSEB CLASS 10 SANSKRIT (पीयूषम्)
दशमः पाठः: मन्दाकिनीवर्णनम्
सम्पूर्ण प्रश्नोत्तर एवं अभ्यास हल (मौखिकः एवं लिखितः)
अभ्यासः (मौखिकः)
1. एकपदेन उत्तरं वदत —
(क) अस्मिन् पाठे का नदी वर्णिता अस्ति ?
उत्तरम् : मन्दाकिनी
(ख) मन्दाकिनी कस्य नलिनी इव सर्वतः राजते ?
उत्तरम् : राजराजस्य (कुबेरस्य)
(ग) मन्दाकिनीं नदीं के अवगाहन्ते ?
उत्तरम् : ऋषयः
(घ) रामः मन्दाकिनीम् नदीं कां दर्शयति ?
उत्तरम् : सीताम्
(ङ) मन्दाकिनी-वर्णनं कुतः सङ्गृहीतम् अस्ति ?
उत्तरम् : रामायणात् (अयोध्याकाण्डात्)
(च) मुनयः कम् उपतिष्ठन्ते ?
उत्तरम् : आदित्यम् (सूर्यम्)
(छ) कीदृशानि तीर्थानि रतिं सञ्जनयन्ति ?
उत्तरम् : रमणीयानि
2. श्लोकांशं योजयित्वा पूर्णं श्लोकं वदत —
(क) जटाजिनधरा काले वल्कलारण्यावाससः।
ऋषयस्त्ववगाहन्ते मन्दाकिनीं नदीं प्रिये॥
ऋषयस्त्ववगाहन्ते मन्दाकिनीं नदीं प्रिये॥
(ख) दर्शनं चित्रकूटस्य रम्यस्य शोभने।
अधिकं पुरवासाच्च मन्ये तव च दर्शनात्॥
अधिकं पुरवासाच्च मन्ये तव च दर्शनात्॥
अभ्यासः (लिखितः)
1. एकपदेन उत्तरं लिखत —
(क) मन्दाकिनी नदी कस्य पर्वतस्य निकटे प्रवहति ?
उत्तरम् : चित्रकूटस्य
(ख) नृत्यति इव कः प्रतिभाति ?
उत्तरम् : पर्वतः
(ग) साम्प्रतं कैः पीतानि जलानि कलुषितानि ?
उत्तरम् : मृगयूथैः (मृगैः)
(घ) ऊर्ध्वबाहवः के सन्ति ?
उत्तरम् : मुनयः
(ङ) विशालाक्षि इति कस्याः कृते सम्बोधनम् ?
उत्तरम् : सीतायाः
2. पूर्णवाक्येन उत्तरं लिखत —
(क) हंससारससेविता विचित्रपुलिना च का ?
उत्तरम् : हंससारससेविता विचित्रपुलिना च मन्दाकिनी नदी अस्ति।
(ख) संशितव्रताः मुनयः किं कुर्वन्ति ?
उत्तरम् : संशितव्रताः मुनयः नियमैः ऊर्ध्वबाहवः भूत्वा आदित्यम् उपतिष्ठन्ते।
(ग) श्रीरामः मन्दाकिन्यां प्लूयमानान् कान् दर्शयति ?
उत्तरम् : श्रीरामः मन्दाकिन्यां प्लूयमानान् पुष्पसञ्चयान् दर्शयति।
(घ) सिद्धजनाकीर्णां मन्दाकिनीम् का पश्यति ?
उत्तरम् : सिद्धजनाकीर्णां मन्दाकिनीम् सीता पश्यति।
(ङ) "मन्दाकिनी-वर्णनस्य" रचयिता कः ?
उत्तरम् : "मन्दाकिनी-वर्णनस्य" रचयिता महर्षिः वाल्मीकिः अस्ति।
(च) "मन्दाकिनी-वर्णनम्" रामायणस्य कस्मिन् काण्डे अस्ति ?
उत्तरम् : "मन्दाकिनी-वर्णनम्" रामायणस्य अयोध्याकाण्डे अस्ति।
(छ) शुभा गिरः के निष्कूजन्ति ?
उत्तरम् : शुभा गिरः विहङ्गाः (पक्षिणः) निष्कूजन्ति।
3. रिक्तस्थानानि पूरयत —
(क) विचित्रपुलिनां रम्यां हंससारससेविताम्।
कुसुमैरुपसम्पन्नाम् पश्य मन्दाकिनीं नदीम्॥
कुसुमैरुपसम्पन्नाम् पश्य मन्दाकिनीं नदीम्॥
(ख) क्वचिन्मणिनिकाशोदां क्वचित् पुलिनशालिनीम्।
क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्॥
क्वचित् सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम्॥
4. उदाहरणमनुसृत्य कोष्ठगतपदानां समुचितं प्रयोगं कृत्वा वाक्यानि योजयत —
उदाहरणम् — मन्दाकिनीं नदीं हंससारससेविता कुसुमैरुपसम्पन्ना ............... (रम्य, भव्य)
उत्तरम् — मन्दाकिनीं नदीं हंससारससेविता कुसुमैरुपसम्पन्ना रम्या अस्ति।
उत्तरम् — मन्दाकिनीं नदीं हंससारससेविता कुसुमैरुपसम्पन्ना रम्या अस्ति।
(क) सीता रामचन्द्रस्य ________। (माता, प्रिया, पुत्री)
उत्तरम् : सीता रामचन्द्रस्य प्रिया।
(ख) जटाजिनधराः ऋषयः ________ अवगाहन्ते। (पद्माम्, मन्दाकिनीम्, यमुनाम्)
उत्तरम् : जटाजिनधराः ऋषयः मन्दाकिनीम् अवगाहन्ते।
(ग) संशितव्रता मुनयः ________ उत्तिष्ठन्ते (उपतिष्ठन्ते)। (रामं, आदित्यं, कृष्णं)
उत्तरम् : संशितव्रता मुनयः आदित्यं उपतिष्ठन्ते।
(घ) नदीम् अभितः ________ प्रवृत्त इव। (धरा, वृक्षः, पर्वतः)
उत्तरम् : नदीम् अभितः पर्वतः प्रवृत्त इव।
(ङ) पुरवासात् ________ दर्शनम् अधिकं महत्वपूर्णम्। (ग्रामस्य, वनस्य, चित्रकूटस्य)
उत्तरम् : पुरवासात् चित्रकूटस्य दर्शनम् अधिकं महत्वपूर्णम्।
(च) पक्षिणः पर्यायवाची ________ अस्ति। (रवः, द्विजः, नगः)
उत्तरम् : पक्षिणः पर्यायवाची द्विजः अस्ति।
(छ) अस्मिन् पाठे रथाङ्गाह्वयना ________ खगस्य पर्यायवाची अस्ति। (कपोतस्य, चक्रवाकस्य, काकस्य)
उत्तरम् : अस्मिन् पाठे रथाङ्गाह्वयना चक्रवाकस्य खगस्य पर्यायवाची अस्ति।
0 Comments