Chapter 1. मङ्गलम् | BSEB 10 Sanskrit Solution


BSEB CLASS 10 SANSKRIT (पीयूषम्)

प्रथमः पाठः: मङ्गलम्

सम्पूर्ण प्रश्नोत्तर, व्याकरण एवं अभ्यास हल (मौखिकः एवं लिखितः)

अभ्यासः (मौखिकः)

1. एकपदेन उत्तरं वदत —
(क) हिरण्मयेन पात्रेण कस्य मुखम् अपिहितम् ?
उत्तरम् : सत्यस्य
(ख) सत्यधर्माय प्राप्तये किम् अपावृणु ?
उत्तरम् : हिरण्मयं पात्रम्
(ग) ब्रह्मणः मुखं केन आच्छादितमस्ति ?
उत्तरम् : हिरण्मयेन पात्रेण
(घ) महतो महीयान् कः ?
उत्तरम् : आत्मा
(ङ) अणोः अणीयान् कः ?
उत्तरम् : आत्मा
(च) पृथिव्यादेः महत्परिमाणयुक्तात् पदार्थात् महत्तरः कः ?
उत्तरम् : आत्मा
(छ) कीदृशः पुरुषः निजेन्द्रियप्रसादात् आत्मनः महिमानं पश्यति शोकरहितश्च भवति ?
उत्तरम् : अक्रतुः
(ज) किं जयं प्राप्नोति ?
उत्तरम् : सत्यम्
(झ) किं जयं न प्राप्नोति ?
उत्तरम् : अनृतम् (असत्यम्)
(ञ) काः नाम रूपञ्च विहाय समुद्रे अस्तं गच्छन्ति ?
उत्तरम् : नद्यः
2. एतेषां पद्यानाम् प्रथमचरणं मौखिकरूपेण पूरयत —
(क) हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम्।
(ख) अणोरणीयान् महतो महीयान्।
(ग) सत्यमेव जयते नानृतम्।
(घ) यथा नद्यः स्यन्दमानाः समुद्रे।
(ङ) वेदाहमेतं पुरुषं महान्तम्।
3. एतेषां पदानाम् अर्थं वदत —
  • 1. अपिहितम् ढका हुआ (आच्छादितम्)
  • 2. सत्यधर्माय सत्य और धर्म की प्राप्ति के लिए
  • 3. अणोरणीयान् सूक्ष्म से भी सूक्ष्म
  • 4. अक्रतुः कामनारहित / निष्काम (शोक रहित)
  • 5. वीतशोकः शोक रहित
  • 6. विततः विस्तार होता है
  • 7. देवयानः देवलोक का मार्ग
  • 8. आप्तकामाः कामनाओं से पूर्ण / निष्काम ऋषयः
  • 9. स्यन्दमानाः प्रवहन्त्यः (बहती हुई)
  • 10. अयनाय मोक्षस्य कृते (प्राप्ति के लिए)

अभ्यासः (लिखितः)

1. एकपदेन उत्तरं लिखत —
(क) सत्यस्य मुखं केन पात्रेण अपिहितम् अस्ति ?
उत्तरम् : हिरण्मयेन
(ख) पूषा कस्मै सत्यस्य मुखम् अपावृणुयात् ?
उत्तरम् : सत्यधर्माय
(ग) कः महतो महीयान् अस्ति ?
उत्तरम् : आत्मा
(घ) किं जयते ?
उत्तरम् : सत्यम्
(ङ) देवयानः पन्थाः केन विततः अस्ति ?
उत्तरम् : सत्येन
(च) नद्यः के विहाय समुद्रे अस्तं गच्छन्ति ?
उत्तरम् : नामरूपे
(छ) साधकः पुरुषं विदित्वा कम् अत्येति ?
उत्तरम् : मृत्युम्
2. प्रदत्तप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत —
उदाहरणम् — प्रश्नः : सत्यस्य मुखं केन अपिहितम् अस्ति ? → उत्तरम् : सत्यस्य मुखं हिरण्मयेन पात्रेण अपिहितम् अस्ति।
(क) कस्य गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति ?
उत्तरम् : जन्तोः हृद्गुहायाम् अणोः अणीयान् आत्मा निहितः अस्ति।
(ख) विद्वान् कस्मात् विमुक्तो भूत्वा परात्परं पुरुषम् उपैति ?
उत्तरम् : विद्वान् नामरूपात् विमुक्तो भूत्वा परात्परं दिव्यं पुरुषम् उपैति।
(ग) आप्तकामा ऋषयः केन पथा सत्यं प्राप्नुवन्ति ?
उत्तरम् : आप्तकामा ऋषयः देवयानेन पथा सत्यं प्राप्नुवन्ति।
(घ) विद्वान् कीदृशं पुरुषं वेत्ति ?
उत्तरम् : विद्वान् आदित्यवर्णं तमसा परस्तात् महान्तं पुरुषं वेत्ति।
3. सन्धिविच्छेदं कुरुत —
  • 1. कस्यापिहितम् कस्य + अपिहितम्
  • 2. अणोरणीयान् अणोः + अणीयान्
  • 3. जन्तोर्निहितः जन्तोः + निहितः
  • 4. ह्याप्तकामाः हि + आप्तकामाः
  • 5. उपैति उप + एति
4. प्रकृति-प्रत्ययनिदर्शनं कुरुत —
  • 1. अपिहितम् अपि + धा + क्त
  • 2. निहितः नि + धा + क्त
  • 3. विमुक्तः वि + मुच् + क्त
  • 4. विहाय वि + हा + ल्यप्
  • 5. विततः वि + तन् + क्त
5. समास-विग्रहं कुरुत —
  • 1. अनृतम् न ऋतम् (नञ् तत्पुरुषः)
  • 2. आदित्यवर्णम् आदित्यस्य वर्णः इव तम् (कर्मधारयः)
  • 3. वीतशोकः वीतः शोकः यस्मात् सः (बहुव्रीहिः)
  • 4. देवयानः देवानामपि यानः (षष्ठी तत्पुरुषः)
  • 5. नान्यः न अन्यः (नञ् तत्पुरुषः)
6. रिक्तस्थानानि पूरयत —
(क) ________ सत्यस्यापिहितं मुखम्।
उत्तरम् : हिरण्मयेन पात्रेण
(ख) ________ महतो महीयान्।
उत्तरम् : अणोरणीयान्
(ग) ________ नानृतम्।
उत्तरम् : सत्यमेव जयते
(घ) यथा ________ स्यन्दमानाः समुद्रे।
उत्तरम् : नद्यः
(ङ) तमेव ________ मृत्युमेति।
उत्तरम् : विदित्वाति
7. अधोनिर्दिष्टानां पदानां स्ववाक्येषु प्रयोगं कुरुत —
1. सत्यम् :
सदा सत्यम् वदेत्।
2. सत्यस्य :
सत्यस्य एव विजयः भवति।
3. गच्छन्ति :
नद्यः समुद्रे अस्तं गच्छन्ति।
4. विमुक्तः :
ज्ञानी पुरुषः मोहमयात् विमुक्तः भवति।
5. अन्यः :
संसारे ईश्वरस्य ऋते न अन्यः रक्षकः।

0 Comments